Skip to main content

Indian Journal of Multidisciplinary Research and Studies

Indian Journal of Multidisciplinary Research and Studies

A Peer-reviewed, Multidisciplinary, Quarterly Journal

ISSN: 3108-1681

Call For Papers - Volume 2, Issue 3 (July - September 2026)
Paper Title

भारतीयज्ञानपरम्परादृष्ट्या पातञ्जलमहाभाष्यगतवैज्ञानिकतत्त्वविमर्शः

Author(s)Dr. Bighneswar Mishra.
CountryIndia
Abstract

[शोधसारः – भारतीयविज्ञानपरम्परा विश्वस्य प्राचीनतमवैज्ञानिकपरम्परासु अन्यतमा प्राचीना च विद्यते, या वैदिककालादेव आरब्धा। ऋषिभिः स्वतर्कशक्तिमनोयोगतपोबलमाध्यमैः जीवनतत्त्वस्य वैज्ञानिकतथ्यस्य च गूढरहस्यानि प्रतिपादितानि। आधुनिकवैज्ञानिकैः विज्ञानस्य याः शाखाः प्रतिपादिताः प्रायः सर्वाः ताः शाखाः भारतीयज्ञानपरम्परायां महामनीषिभिः पोषिताः। आदिकालादेव विज्ञानस्य विकासो वरीवर्ति। अस्माकं प्राचीनविदुषां गणित-ज्योतिष-चिकित्सा-भौतिकीरसायन-वनस्पति-जीव-भूगर्भ-यन्त्र-प्रभृतिविज्ञानानां महतामाविष्काराणां च विषये महद् ज्ञानमासीदिति तत्तत्साहित्य-धर्मशास्त्र-दर्शन-व्याकरणादिग्रन्थेषु प्राप्यते। महाभाष्यम् इति ग्रन्थः व्याकरणशास्त्रेष्वन्यतमः। स्व-सरलतम-शैली-निमित्ते प्रसिद्धे पतञ्जलिविरचिते महाभाष्ये नैके विज्ञानविषयाः चर्चिताः। भौतिकविज्ञानम्, आयुर्विज्ञानम्, रसायनविज्ञानम्, वनस्पतिविज्ञानम्, भूगर्भविज्ञानम्, कृषिविज्ञानम् इत्यादिवैज्ञानिकतत्त्वानां विवरणं प्राप्यते। एतेषु विवरणेषु पदार्थानां गति-स्वभावः, रोगाणां स्वरूपम्, धातूनां प्रयोगः, वनस्पतीनां वर्गीकरणम्, भूगर्भरत्नानां परिचयः, कृषिपद्धतिः इत्यादयः विषयाः विशेषतया उल्लेखनीयाः सन्ति। महाभाष्यवर्णितविज्ञानस्य तत्वान्यत्यन्तप्रयोजनभूतान्यद्यतनीयज्ञानपरम्परायामुपकारभूतानि च भवन्ति इति शोधपत्रे प्रस्तूयते। एतादृशेन वस्तुनिष्ठेन आन्तर्विषयकानुसन्धानेन भारतीयज्ञानपरम्परायाः वास्तविकस्वरूपमधिकं स्पष्टतया प्रकाशयितुं शक्यते तथा संस्कृतवाङ्मयस्य वैज्ञानिकाध्ययनाय नूतनाः अनुसन्धानदिशः अपि प्रशस्ताः भविष्यन्ति।]

Keywordsपातञ्जलमहाभाष्यम्, भारतीयज्ञानपरम्परा, भौतिकविज्ञानम्, आयुर्विज्ञानम्, रसायनविज्ञानम्, वनस्पतिविज्ञानम्, भूगर्भविज्ञानम्, कृषिविज्ञानम्
Subject AreaOther > Indian Knowledge System
Issue Volume 2, Issue 3 (July - September 2026)
Published2026/08/17
How to Cite Mishra, B. (2026). भारतीयज्ञानपरम्परादृष्ट्या पातञ्जलमहाभाष्यगतवैज्ञानिकतत्त्वविमर्शः. Indian Journal of Multidisciplinary Research and Studies, 2(3), 74–80.
License
Copyright © 2026 The Author(s). This work is licensed under a Creative Commons Attribution 4.0 International License (CC BY 4.0).

PDF View / Download PDF File